________________
पञ्चमोऽङ्कः ।
१५१
तगृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लन्नां नाटयति ।)
वसन्तसेना-(आत्मगतम् ।) अदो जेव कामीअसि । (क) चारुदत्तः-(जनान्तिकम् ।) भोः, कष्टम् ।
धनैर्वियुक्तस्य नरस्य लोके
किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा
कोपप्रसादा विफलीभवन्ति ॥ ४० ॥ अपि च । .
पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् ।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥ अपि च ।
शून्यैगृहैः खलु समाः पुरुषा दरिद्राः
कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः । यदृष्टपूर्वजनसंगमविस्मृताना
मेवं भवन्ति विफलाः परितोषकालाः ।। ४२ ॥ विदूषकः-भो, अलं अदिमेत्तं संतप्पिदेण । (प्रकाशं सपरिहासम् ।) भोदि, समप्पीअदु ममकेरिआ ण्हाणसाडिआ । (ख)
वसन्तसेना-अज्ज चारुदत्त, जुत्तं णेदं इमाए रअणावलीए इमं जणं तुलइदुम् । (ग) (क) अत एव काम्यसे ।
(ख) भोः, अलमतिमात्रं संतापितेन । भवति, समर्प्यतां मम स्नानशाटिका।
(ग) आर्य चारुदत्त, युक्तं नेदमनया रत्नावल्या इमं जनं तूलयितुम् । ब्राह्मणेन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥४१॥ शून्यैरिति । बट्ट. टेति । यतो यस्मादृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानखदैन्यविस्मृतानां विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तूलयितुमिति । लुब्धालुब्धजिज्ञासया श(ब)हुमूल्याया रत्नावल्या अल्पमूल्यसुवर्ण