________________
मृच्छकटिके
विदूषकः - ( सहर्ष 1) भो वअस्स, तं ज्जेव एवं सुवण्णभण्डअम्, जं अम्हाणं गेहे चोरेहिं अवहिदम् । (क)
१५०
चारुदत्तः – वयस्य,
योऽस्माभिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् । स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९॥ विदूषकः - भो वअस्स, सच्चं सबामि बम्हणेण । (ख) चारुदत्तः - प्रियं नः प्रियम् ।
विदूषकः - ( जनान्तिकम् 1) भो, पुच्छामि गं कुदो एवं समासादिति । (ग)
.
चारुदत्तः ― को दोषः ।
-
1
विदूषकः - (चेट्याः कर्णे ) एव्वं विअ । (घ) चेटी (विदूषकस्य कर्णे) एव्वं विअ । (ङ) चारुदत्तः — किमिदं कथ्यते । किं वयं बाह्याः । विदूषकः - ( चारुदत्तस्य कर्णे ।) एव्वं विअ । (च) चारुदत्तः — भद्रे, सत्यं तदेवेदं सुवर्णभाण्डम् | चेटी- - अज्ज, अध इं । (छ)
।
-
चारुदत्तः -- भद्रे, न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया ।
(क) भो वयस्य, तदेवेदं सुवर्णभाण्डम्, यदस्माकं गृहे चौरैरपहृतम् । (ख) भो वयस्य, सत्यं शपे ब्राह्मण्येन ।
(ग) भोः, पृच्छामि ननु कुत इदं समासादितमिति ।
(घ) एवमिव ।
(ङ) एवमिव ।
(च) एवमिव ।
(छ) आर्य, अथ किम् ।
प्रेष्यतां भुज्यताम् (?) य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा ॥ ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हणेण