________________
पञ्चमोऽङ्कः ।
१४९
चेटी-एसा क्खु अजआ एव्वं पुच्छिदं आअदा-'केत्तिअं ताए रअणावलीए मुल्लं' त्ति । (क)
विदूषकः-(जनान्तिकम् ।) भो, भणिदं मए, जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभण्डअम् । ण परितुट्टा । अवरं मग्गिदुं आअदा । (ख)
चेटी—सा क्खु अजआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । (ग) विदूषकः-भौदि, मन्तिदं जेव मन्तीअदि । (घ)
चेटी-जाव सो अण्णेसीअदि ताव एवं जेव गेण्ह सुवण्णभण्डअम् । (ङ) (इति दर्शयति ।)
(विदूषको विचारयति ।) चेटी–अदिमेत्तं अजो णिज्झाअदि । ता किं दिट्टपुरुब्वो दे । (च) विदूषकः–भोदि, सिप्पकुसलदाए ओबन्धेदि दिट्ठिम् । (छ)
चेटी-अज, वञ्चिदोसि दिट्टीए । तं जेव एवं सुवण्णभण्डअम् । (ज)
(क) एषा खल्वार्या एवं प्रष्टुमागता-'कियत्तस्या रत्नावल्या मूल्यम्' इति ।
(ख) भोः, भणितं मया, यथाल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डम् । न परितुष्टा । अपरं याचितुमागता ।
(ग) सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत गति । (घ) भवति, मन्त्रितमेव मन्त्र्यते । (ङ) यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् । (च) अतिमात्रमार्यो निध्यायति । तत्कि दृष्टपूर्व ते । (छ) भवति, शिल्पकुशलतयावबध्नाति दृष्टिम् । (ज) आर्य, वञ्चितोऽसि दृष्टया । तदेवेदं सुवर्णभाण्डम् ।