SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४८ मृच्छकटिके विदूषकः-इदं आसणम् । उवविसदु भोदी । (क) __(वसन्तसेनासीना । ततः सर्व उपविशन्ति ।) चारुदत्तः-वयस्य, पश्य पश्य । वर्षोदकमुद्रिता श्रवणान्तविलम्बिना कदम्बेन । एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥ तद्वयस्य, क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समुपनीयतामिति । विदूषकः-जं भवं आणवेदि । (ख) .. चेटी-अज मित्तेअ, चिट्ठ तुमम् । अहं जेव अजअं सुस्सूसइस्सम् । (ग) (तथा करोति ।) विदषक:-(अपवारितकेन ।) भो वअस्स, पुच्छामि दाव तत्थभोदि किं पि । (घ) चारुदत्तः-एवं क्रियताम् । विदूषकः--(प्रकाशम् ।) अध किंणिमित्तं उण ईदिसे पणट्टच. न्दालोए दुद्दिणअन्धआरे आअदा भोदी । (ङ) चेटी-अजए, उजुओ बम्हणो । (च) वसन्तसेना-णं णिउणोत्ति भणाहि । (छ) (क) इदमासनम् । उपविशतु भवती । (ख) यद्भवानाज्ञापयति । (ग) आर्य मैत्रेय, तिष्ठ त्वम् । अहमेवार्या शुश्रूषयिष्यामि । (घ) भो वयस्य, पृच्छामि तावत्तत्रभवतीं किमपि । . (ङ) अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती। (च) आर्ये, ऋजुको ब्राह्मणः । (छ) ननु निपुण इति भण । सदेति ॥ ३७ ॥ वर्षोंदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (!)।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy