________________
पञ्चमोऽङ्कः।
१४७
विदूषकः-भोदि, जहिं ण खाईअदि ण पीईअदि । (क)
(वसन्तसेना स्मितं करोति ।) विदूषकः-ता पविसदु भोदी । (ख) .. वसन्तसेना-(जनान्तिकम् ।) एत्थ पविसिअ किं मए भणिदव्वम् । (ग)
चेटी-जूदिअर, अवि सुहो दे पदोसो त्ति । (घ) वसन्तसेना-अवि पारइस्सम् । (ङ) चेटी-अवसरो जेव पारइस्सदि । (च) विदूषकः—पविसदु भोदी । (छ)
वसन्तसेना-(प्रविश्योपसृत्य च । पुष्पैस्ताडयन्ती ।) अइ जूदिअर, अवि सुहो दे पदोसो । (ज)
चारुदत्तः—(अवलोक्य ।) अये, वसन्तसेना प्राप्ता । (सहर्ष मुत्थाय ।) अयि प्रिये, .
सदा प्रदोषो मम याति जाग्रतः ___ सदा च मे निश्वसतो गता निशा । त्वया समेतस्य विशाललोचने
ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७॥ तत्स्वागतं भवत्यै । इदमासनम् । अत्रोपविश्यताम् ।
(क) भवति, यत्र न खाद्यते न पीयते । (ख) तस्मात्प्रविशतु भवती। (ग) अत्र प्रविश्य किं मया भणितव्यम् । (घ) द्यूतकर, अपि सुखस्ते प्रदोष इति । (ङ) अपि पारयिष्यामि । (च) अवसर एव पारयिष्यति । (छ) प्रविशतु भवती। (ज) अयि द्यूतकर, अपि सुखस्ते प्रदोषः ।