________________
मृच्छकटिके
गता नाशं तारा उपकृतमसाधाविव जने
वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः । प्रकामान्तस्तप्तं त्रिदशपतिशस्त्रस्य शिखिना
द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥ अपि च पश्य । उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यवेकानि ॥ २६॥ विटः–एवमेतत् । विद्युद्भिवलतीव संविहसतीवोच्चैबलाकाशतै
माहेन्द्रेण विवल्गतीव धनुषा धाराशरोद्गारिणा । विस्पष्टाशनिनिखनेन रसतीवाघूर्णतीवानिलै
नीलैः सान्द्रमिवाहिभिर्जलधरैबूंपायतीवाम्बरम् ॥ २७ ॥ वसन्तसेनाजलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् । स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥ भोः शक्र,
किं ते ह्यहं पूर्वरतिप्रसक्ता
यत्त्वं नदस्यम्बुदसिंहनादैः । न युक्तमेतत्प्रियकाजिताया
__ मार्ग निरोद्धं मम वर्षपातैः ॥ २९ ॥ * अपि च ।
यद्वदहल्याहेतोमषा वदसि शक गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष निवार्यतां जलदः ॥ ३० ॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति । त्रिदशपतिशस्त्रस्य वज्रस्य ॥ २५ ॥ उन्नमतीति ॥ २६ ॥ विधुद्भिरिति ॥ २७ ॥ जलधरेति ॥ २८ ॥ किं त इति । रतिप्रसक्ता संभोगेन प्रसका । प्रियेण कातितायाः ॥ २९ ॥ यद्वदिति । हे शक्र, यथा अहल्याया अप्राप्तिदुःखेन गौत