________________
पञ्चमोऽङ्कः। विटः–वसन्तसेने, पश्य पश्य ।
एते हि विद्युद्गुणबद्धकक्षा
गजा इवान्योन्यमभिद्रवन्तः । शक्राज्ञया वारिधराः सधारा
गां रूप्यरज्ज्वेव समुद्धरन्ति ॥ २१ ॥ अपि च पश्य । महावाताध्मातैर्महिषकुलनीलैर्जलधरै
श्चलविद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः । इयं गन्धोदामा नवहरितशष्पाङ्कुरवती
धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥ वसन्तसेना-भाव, एसो अवरो । (क) एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः
प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः । हंसैरुज्झितपङ्कजैरतितरां सोबॅगमुद्वीक्षितः
कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥ विटः-एवमेतत् । तथा हि पश्य । निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं
विद्युद्भिः क्षणनष्टदृष्टतिमिरं प्रच्छादिताशामुखम् । निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं
स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥ वसन्तसेना-भाव, एव्वं णेदम् । ता पेक्ख पेक्ख । (ख) (क) भाव, एषोऽपरः। (ख) भाव, एवं विदम् । तत्पश्य पश्य ।
एत इति । कक्षा मध्यबन्धनम् । गां भूमिम् ॥ २१ ॥ महेति । शष्पाकुराः संलग्नशरतुल्याः ॥ २२ ॥ एहीति । मेचकाः इयामाः ॥ निष्पन्दीति ॥२४॥