________________
१४२
मृच्छकटिके
P
विटः - भवतु । एवं तावत् । उपालभ्यतां तावदियम् । वसन्तसेना-भाव, किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया । पश्यतु भावः ।
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥ विट: - वसन्तसेने, पश्य पश्य । अयमपरः पवनचपलवेगः स्थूलधाराशरौघः
स्तनितपटहनादः स्पष्टविद्युत्पताकः । हरति करसमूहं खे शशाङ्कस्य मेघो
नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥ वसन्तसेना - एवं णेदम् । ता कधं एसो अवरो । ( क ) एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै
गर्जद्भिः सतडिद्बलाकशबलैर्मेधैः सशल्यं मनः ।
し
तत्कि प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् || १८ || विटः – वसन्तसेने, एवमेतत् । इदमपरं पश्य ।
बलाका पाण्डुरोष्णीषं विद्युदुत्क्षिप्तचामरम् । मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥ वसन्तसेना-भाव, पेक्ख पेक्ख । (ख) एतैरार्द्रतमालपत्रमलिनैरापीतसूर्य नभो
वल्मीका ः शरताडिता इव गजाः सीदन्ति धाराहताः । विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी
ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥ (क) एवं न्विदम् । तत्कथमेषोऽपरः ।
(ख) भाव, पश्य पश्य ।
मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति । करसमूहं अंशु - राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । प्रोषितभर्तृशब्दो न नित्यः समासान्त इति 'नवृतश्च' इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥