SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। (ततः प्रविशत्युज्ज्वलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च ।) विटः-(वसन्तसेनामुद्दिश्य ।) अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् । सलीलं गच्छन्ती रतिसमयलज्जाप्रणयिनी रतिक्षेत्रे रङ्गे प्रियपथिकसाथैरनुगता ॥ १२ ॥ वसन्तसेने, पश्य पश्य । गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा • ___ मेघा वियुक्तवनिताहृदयानुकाराः । येषां रवेण सहसोत्पतितैर्मयूरैः ___ खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥ अपि च । पकक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते । संन्यासः कुलदूषणैरिव जनैर्मेधैर्वृतश्चन्द्रमा “विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र संतिष्ठते ॥ १४ ॥ वसन्तसेना-भाव, सुड दे भणिदम् । (क) एषा हि मूढे निरन्तरपयोधरया मयैव ___ कान्तः सहाभिरमते यदि किं तवात्र । मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्ग रुणद्धि कुपितेव निशा सपत्नी ॥ १५॥ (क) भाव, सुष्ठु ते भणितम् । पण्हं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डु पादम् ॥ अपनेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचामित्यादिनाकारलोपः (१) ॥ १२ ॥ गर्जन्तीति ॥ १३ ॥ पङ्केति । कण्ठं मुश्चतीति । 'कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्व कण्ठं मुञ्चतीत्युत्प्रेक्षा (2) ॥ १४ ॥ मूढे इति । मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy