________________
मृच्छकटिके चारुदत्तः-वयस्य, किं मां प्रतारयसि । विदूषकः-जइ मे वअणे ण पत्तिआअसि, ता एवं कुम्भीलअं पुच्छ । अरे दासीए पुत्ता कुम्भीलअ, उवसप्प । (क)
चेटः-(उपसृत्य ।) अन्ज, वन्दामि । (ख) चारुदत्तः–भद्र, स्वागतम् । कथय सत्यं प्राप्ता वसन्तसेना । चेटः-एशा शा आअदा वशन्तशेणा । (ग)
चारुदत्तः - (सहर्षम् ।) •भद्र, न कदाचित्प्रियवचनं निष्फलीकृतं मया । तगृह्यतां पारितोषिकम् । (इत्युत्तरीयं प्रयच्छति ।)
चेटः-(गृहीत्वा प्रणम्य सपरितोषम् ।) जाव , अज्ज आए णिवेदेमि । (घ) (इति निष्कान्तः ।)
विदूषकः-भो, अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदेत्ति । (ङ)
चारुदत्तः-वयस्य, न सम्यगवधारयामि ।
विदूषकः-मए जाणिदम् । अप्पमुल्ला रअणावली, बहुमुल्लं सुवस्सभण्डअं ति ण परितुट्टा अवरं मग्गिदुं आअदा । (च)
चारुदत्तः-(खगतम् ।) परितुष्टा यास्यति ।
(क) यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक, उपसर्प ।
(ख) आर्य, वन्दे । (ग) एषा सागता वसन्तसेना । (घ) यावदार्याया निवेदयामि । (ङ) भोः, अपि जानासि, किंनिमित्तमीदृशे दुर्दिन आगतेति ।
(च) मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टापरं याचितुमागता ।