SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। १३५ (प्रहस्य ।) वंशं वाए शत्तछिदं शुशदं वीणं वाए शत्ततन्ति णदन्तिम् । गीअं गाए गद्दहश्शाणुलूअं के मे गाणे तुम्बुलू णालदे वा ॥ ११ ॥ आणत्तम्हि अजआए वशन्तशेणाए–'कुम्भीलआ, गच्छ तुमम् । मम आगमणं अजचारुदत्तश्श णिवेदेहि' ति । ता जाव अजचारुदत्तश्श गेहं गच्छामि । (परिक्रम्य प्रविष्टकेन दृष्ट्वा ।) एशे चालुदत्ते रुक्खवाडिआए चिट्ठदि । एशे वि शे दुट्टवडुके । ता जाव उवशप्पेमि । कधं ढकिदे दुवाले रुक्खवाडिआए । भोदु । एदश्श दुट्टवडुकश्श शण्णं देमि । (क) (इति लोष्टगुटिकाः क्षिपति ।) (क) अवेत मानवाः, यथा यथा वर्षत्यभ्रखण्ड - तथा तथा तिम्यति पृष्ठचर्म । यथा यथा लगति शीतवात___ स्तथा तथा वेपते मे हृदयम् ॥ वंशं वादयामि सप्तच्छिद्रं सुशब्दं . वीणां वादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्थानुरूपं । __को मे गाने तुम्बुरुर्नारदो वा ॥ आज्ञप्तोऽस्म्यार्यया वसन्तसेनया-'कुम्भीलक, गच्छ त्वम् । ममागमनमार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यचारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तद्यावदुपसर्पामि । कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु । एतस्य दुष्टबटुकस्य संज्ञां ददामि। लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥१०॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वादयामि सप्तच्छेदं सुशब्दं वीणां वादयामि सप्ततन्त्री नदन्तीम् । गीतं गायामि गर्दभस्थानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy