________________
१३६ . मृच्छकटिके
विदूषकः-अए, को दाणि एसो पाआरवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि । (क)
चारुदत्तः–आरामप्रासादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।
विदूषकः-दासीए पुत्त दुट्टपारावअ, चिट्ठ चिट्ठ । जाव एदिणा दण्डकटेण सुपकं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सम् । (ख) (इति दण्डकाष्ठमुद्यम्य धावति ।)
चारुदत्तः-(यज्ञोपवीत आकृष्य ।) वयस्य, उपविश । किमनेन । तिष्ठतु दयितासहितस्तपस्वी पारावतः ।
चेट:-कधं पारावदं पेक्खदि । मं ण पेकृखदि । भोदु । अवराए लोट्टगुडिकाए पुणो वि ताडइस्सम् । (ग) (तथा करोति ।)
विदषक: (दिशोऽवलोक्य ।) कधं कुम्भीलओ । ता जाव उवसप्पामि । (उपसृत्य । द्वारमुद्धाट्य ।) अरे कुम्भीलअ, पविश । साअदं दे । (घ)
चेट:-(प्रविश्य ।) अन्ज, वन्दामि । (ङ) विदूषकः-अरे, कहिं तुमं ईदिसे दुद्दिणे अन्धआरे आअदो । (च)
(क) अये, क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति।
(ख) दास्याः पुत्र दुष्टपारावत, तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेन सुपक्कमिव चूतफलमस्मात्प्रासादाद्भूमौ पातयिष्यामि । . (ग) कथं पारावतं पश्यति । मां न पश्यति । भवतु । अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि ।
(घ) कथं कुम्भीलक । तद्यावदुपसर्पामि । अरे कुम्भीलक, प्रविश । स्वागतं ते।
(ङ) आर्य, वन्दे। (च) अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः ।