________________
१३४
मृच्छकटिके
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८ ॥ अपि च वयस्य,
यस्यास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः । (खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् ।)
वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥९॥ विदूषकः-(अधोऽवलोक्य खगतम् ।) जधा एसो उद्धं पेक्खिभ दीहं णिससदि, तधा तक्केमि मए विणिवारिअन्तस्स अधिभदरं वडिदा से उक्कण्ठा । ता सुटुक्खु एव्वं वुच्चदि-'कामो वामो' त्ति। (प्रकाशम् ।) भो वअस्स, भणिदं अ ताए-भणेहि चारुदत्तम्-'अज पओसे मए एत्थ आअन्तव्वं' ति । ता तकेमि रअणावलीए अपरितुट्टा अवरं मग्गिनुं आअमिस्सदि त्ति । (क)
चारुदत्तः-वयस्य, आगच्छतु । परितुष्टा यास्यति । . चेटः-(प्रविश्य ।) अवेध माणहे ।
जधा जधा वश्यदि अब्मखण्डे
तधा तधा तिम्मदि पुट्टिचम्मे । जधा जधा लग्गदि शीदवादे
तधा तधा वेवदि मे हलक्के ॥ १० ॥ (क) यथैष ऊर्ध्व प्रेक्ष्य दीर्घ निश्वसिति, तथा तर्कयामि मया विनिवार्यमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्टु खल्वेवमुच्यते- 'कामो वामः' इति । भो वयस्य, भणितं च तया-भण चारुदत्तम् -'अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तयामि रत्नावल्या अपरितुष्टापरं याचितुमागमिष्यतीति । रासभो गर्दभः ॥ वेगमिति ॥ ८॥ यस्येति ॥ ९॥ अवेध माणहेति । अवेत अवगच्छत मानवा इत्यर्थः । जधा जति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आर्दीभवति पृष्ठचर्म । यथा यथा