________________
१३२
मृच्छकटिके
ट्ठदि । ता जाव उवसप्पामि । ( उपसृत्य ।) सोत्थि भवदे । वढदु
भवम् । (क)
चारुदत्तः — (विलोक्य ।) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य, स्वागतम् । आस्यताम् । विदूषकः—उवविट्टो म्हि । (ख)
चारुदत्तः – वयस्य, कथय तत्कार्यम् । विदूषकः - तं क्खु कज्जं विणट्टम् । (ग) चारुदत्तः - किं तया न गृहीता रत्नावली ।
विदूषकः - कुदो अम्हाणं एत्तिअं भाअधेअम् । णवणलिणकोमलं अञ्जलिं मत्थए कदुअ पडिच्छिआ । (घ)
चारुदत्तः - तत्किं ब्रवीषि विनष्टमिति । विदूषकः—–भो, कधं ण विणट्टम्, जं अभुत्तपीदस्स
(क) अहो गणिकाया लोभोऽदक्षिणता च, यतो न कथापि कृतान्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एतावत्या ऋद्धया न तयाहं भणितः — 'आर्यमैत्रेय, विश्रम्यताम् । मलकेन पानीयमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याः पुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्ठु खलूच्यते - ' अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तत्प्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियवयस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति । तथावदुपसर्पामि । स्वस्ति भवते । वर्धतां भवान् ।
(ख) उपविष्टोऽस्मि ।
(ग) तत्खलु कार्यं विनष्टम् ।
(घ) कुतोऽस्माकमेतावद्भागधेयम् । नवनलिन कोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा ।
नुसारः कृतोऽस्या रत्नावल्या भाव ( ? ) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भणितोऽहम् ॥ यदभुक्तपीतस्य चौरै