________________
१३१
पञ्चमोऽङ्कः ।
संसक्तैरिव चक्रवाक मिथुनै हंसैः प्रडीनैरिव व्याविद्वैरिव मीनचक्रमकरैर्हयैरिव प्रोच्छ्रितैः । '`तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः
पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥ एतत्तद्धृतराष्ट्रवऋसदृशं मेघान्धकारं नभो
हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी । अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो
हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यं गताः ॥ ६ ॥ (विचिन्त्य ।) चिरं खलु कालो मैलेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्यापि आगच्छति ।
•
(प्रविश्य)
विदूषकः - अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिआए ऋद्धीए ण तए अहं भणिदो – 'अज्जमित्तेअ, वीसमीअदु । मल्लकेण पाणी पि पिबिअ गच्छीअदु' त्ति । ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सम् । (सनिर्वेदम् ।) सुट्टु क्खु वुच्चदि - ' अकन्दसमुत्थिदा पउमिणी, अवञ्चओ वाणिओ, अचोरो, सुवण्णआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति' । ता पिअवअस्सं गदुअ इमादो गणिआपसङ्गादो णिवत्तावेमि । (परिक्रम्य दृष्ट्वा ।) कथं पिअवअस्सो रुक्खवाडिआए उवविट्टो चि
द्रावितम् ॥ ४॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः (?) । व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेयं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवऋसदृशं नष्टचन्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यब्लोपे कर्मणि पञ्चमी । वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सिणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणिवा | पाठान्तरेणैव कथा कथं हारितमलंकारभाण्डमित्यादिका नैव कथा