SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। (ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः ।) चारुदत्त:-(ऊर्ध्वमवलोक्य।) उन्नमत्यकालदुर्दिनम् । यदेतत् आलोकितं गृहशिखण्डिभिरुत्कलापै हसैयियासुभिरपाकृतमुन्मनस्कैः। आकालिकं सपदि दुर्दिनमन्तरीक्ष मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १ ॥ अपि च । मेघो जलार्द्रमहिषोदरभृङ्गनीलो विद्युत्प्रभारचितपीतपटोत्तरीयः । आभाति संहतबलाकगृहीतशङ्खः खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥ अपि च । केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः । विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥ एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः । विद्युत्प्रदीपशिखया क्षणनष्टदृष्टा श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥ ___ पूर्वाङ्केऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम्-'प्रवेशथूलिका चैव तथा विष्कम्भकोऽपरः । अङ्कावतारोऽङ्कमुखमथो(र्थो)पक्षेपपञ्च. कम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते। अधमपात्रप्रयोज्यः प्रवेशकः । तदुक्तम् -'भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका ॥' विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥' इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥१॥ मेघ इति । बलाकशब्दः पुंलिङ्गोऽप्येषां संमतः । खं आकाशम् ॥ २॥ केशवेति ॥३॥ एता इति । निषिक्तं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy