________________
चतुर्थोऽङ्कः। त्तम्- 'अहं पि पदोसे अजं पेक्खिदुं आअच्छामि' त्ति । (क)
विदूषकः-(खगतम् ) किं अण्णं तहिं गदुभ गेण्हिस्सदि । (प्रकाशम् ।) भोदि, भणामि—(खगतम् ।) 'णिअत्तीअदु इमादो गणि. आपसङ्गादो, त्ति । (ख) (इति निष्क्रान्तः ।)
वसन्तसेना-हले, गेण्ह एवं अलंकारअम् । चारुदत्तं अहिरमिदं गच्छम्ह । (ग) -
चेटी—अजए, पेक्ख पेक्ख । उण्णमदि अकालदुद्दिणम् ।(घ) वसन्तसेना उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सधैं दयिताभिमुखेन हृदयेन ॥ ३३ ॥ हले, हारं गेण्हिअ लहुं आअच्छ । (ङ)
(इति निष्कान्ताः सर्वे ।) मदनिकाशर्विलको नाम चतुर्थोऽङ्कः ।
- (क) मैत्रेय, कथं न ग्रहीष्यामि रत्नावलीम् । कथं हीनकुसुमादपि सहकारपादपान्मकरन्दबिन्दवो निपतन्ति । आर्य, विज्ञापय तं द्यूतकरं मम वचनेनार्यचारुदत्तम्- 'अहमपि प्रदोष आर्य प्रेक्षितुमागच्छामि' इति ।
(ख) किमन्यत्तत्र गत्वा ग्रहीष्यति । भवति, भणामि-निवर्ततामस्मागणिकाप्रसङ्गात्' इति ।
(ग) चेटि, गृहाणैतमलंकारम् । चारुदत्तमभिरन्तुं गच्छामः । (घ) आर्ये, पश्य पश्य । उन्नमत्यकालदुर्दिनम् । (ङ) चेटि, हारं गृहीत्वा शीघ्रमागच्छ ।
सहासनाटकसूत्रं परितमिव तथा कृत्वा बोद्धव्यम् (2) ॥ उदयन्त्विति ॥ ३३ ॥
इति मदनिकाप्रदानो नाम चतुर्थोऽङ्कः ॥