________________
१२६
मृच्छकटिके
चेटी-अन्ज, एसा रुक्खवाडिआए चिट्ठदि । ता पविसदु अज्जो । (क)
विदूषकः-(प्रविश्य दृष्ट्वा च ।) ही ही भो, अहो रुक्खवाडिआए सस्सिरीअदा । अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरन्तरपादवतलणिम्मिदा जुवदिजहणप्पमाणा पट्टदोला, सुवण्णजूधिआसेहालिआमालईमल्लिआणोमालिआकुरबआअदिमोत्तअप्पहुदिकुसुमेहिं सअं णिवडिदेहिं जं सच्चं लहुकरेदि विअ णन्दणवणस्स सस्सिरीअदम् । (अन्यतोऽवलोक्य ।) इदो अ उदुअन्तसूरसमप्पहेहिं कमलरत्तोप्पलेहिं संझाअदि विअ दीहिआ । अवि अ ।
एसो असो अवुच्छो णवणिग्गमकुसुमपल्लवो भादि ।
सुभडो व्व समरमज्झे घणलोहिदपङ्कचचिक्को ॥ ३१ ॥ भोदु । ता कहिं तुम्हाणं अजआ । (ख) नितम्बजघनान्येव यानपात्राणि मनोहराणि । एवं वसन्तसेनाया बहुवृत्तान्तमष्टप्रकोष्ठं भवनं प्रेक्ष्य यत्सत्यं जानामि, एकस्थमिव त्रिविष्टपं दृष्टम् । प्रशंसितुं नास्ति मे वाग्विभवः । किं तावद्गणिकागृहम् , अथवा कुबेरभवनपरिच्छेद इति । कुत्र युष्माकमार्या ।
(क) आर्य, एषा वृक्षवाटिकायां तिष्ठति । तत्प्रविशत्वार्यः ।
(ख) आश्चर्य भोः, अहो वृक्षवाटिकायाः सश्रीकता । अच्छरीतिकुसुमप्रस्तारा रोपितानेकपादपाः, निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाणा पट्टदोला, सुवर्णयूथिकाशेफालिकामालतीमल्लिकानवमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरोतीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च ।
एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति ।
सुंभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ॥ भवतु । तत्कुत्र युष्माकमार्या । मलजले मदनसमुद्रे स्तननितम्बजघनान्येव यानपात्राणि ॥ सर्वर्तुकुसुमप्रस्तारारोपितानेकपादपा निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाणा पट्टदोला । लघुकीकरोतीव नन्दनवनस्य सश्रीकत्वम् । एसो असोअ इत्यादि । गाथा ।