________________
१२०
मृच्छकटिके
परधननिरता गुणेष्ववाच्या
गजकलभा इव बन्धुला ललामः ॥ २८ ॥ विदूषकः-आदिसदु भोदी । (क)
चेटी-एदु एदु अज्जो । इमं छठें पओढ पविसदु अज्जो। (ख) विदषकः-(प्रविश्यावलोक्य च ।) ही ही भो, इधो वि छढे पओढे अमुं दाव सुवण्णरअणाणं कम्मतोरणाई णीलरअणविणिक्खित्ताई इन्दाउहट्ठाणं विअ दरिसअन्ति । वेदुरिअमोत्तिअपवालअपुफराअइन्दणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाई अण्णोण्णं विचारेन्ति सिप्पिणो । बज्झन्ति जादरूवेहिं माणिक्काइं । घडिज्जन्ति सुवण्णालंकारा । रत्तसुत्तेण गत्थीअन्ति मोत्तिआभरणाइं । घसीअन्ति धीरं वेदुरिआई । छेदीअन्ति सङ्खआ । साणिज्जन्ति पवालआ । सुक्खविअन्ति ओल्लविदकुङ्कुमपत्थरा । सालीअदि सल्लज्जअम् । विस्साणीअदि चन्दणरसो । संजोईअन्ति गन्धजुत्तीओ। दीअदि गणिआकामुकाणां सकप्पूरं ताम्बोलम् । अव
(क) आदिशतु भवती। (ख) एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरभिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लल विलासे' भौमादिकः (१)। अनुप्रासानुरोधेनानयोरैक्यम् । 'ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्टे अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा(?)रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककतरपद्मराग[मरकत]. प्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ । बध्यन्ते जातरूपैः सुवर्णैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । लोहितसूत्रैर्ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणे धृष्यन्ते प्रवालानि । शोष्यन्ते ओल्लविदमवतारिता आर्द्रिता वा कुङ्कुमप्रस्तराः । 'प्रस्तरः कुङ्कुमाधार[श्च]र्मपुटः' इत्याहुः । सालीअदि आर्दीक्रियते । सल्लज्जअं कस्तूरिका । शल्यवद्वेधकत्वात् । आज्यमिव मृगमदत्वात् (१)। विस्साणीअदि विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणि.