________________
चतुर्थोऽङ्कः।
१२१ लोईअदि सकडक्खअम् । पअदि हासो । पिबीअदि अ अणवरअं ससिक्कारं मइरा । इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअन्ति । आदिसदु भोदी । (क)
चेटी-एदु एदु अज्जो । इमं सत्तमं पओढें पविसदु अज्जो । (ख)
विदूषकः-(प्रविश्यावलोक्य च ।) ही ही भो, इधो वि सत्तमे पओढे सुसिलिट्ठविहङ्गवाडीसुहणिसण्णाइं अण्णोण्णचुम्बणपराई सुहं अणुभवन्ति पारावदमिहुणाई । दहिभत्तपूरिदोदरो ब
(क) आश्चर्य भोः, इहापि षष्ठे प्रकोष्ठेऽमूनि तावत्सुवर्णरत्नानां कर्मतोरणानि नीलरत्नविनिक्षिप्तानीन्द्रायुधस्थानमिव दर्शयन्ति । वैदूर्यमौक्तिकप्रवालकपुष्परागेन्द्रनीलकर्केतरकपद्मरागमरकतप्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । बध्यन्ते जातरूपैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । रक्तसूत्रेण ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते धीरं वैदूर्याणि । छिद्यन्ते शङ्खाः । शाणैर्घष्यन्ते प्रवालकाः । शोष्यन्त आर्द्रकुङ्कुमप्रस्तराः । सार्यते कस्तूरिका । विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयते चानवरंतं ससीत्कारं मदिरा । इमे चेटाः, इमाश्चेटिकाः, इमे अपरेऽवधीरितपुत्रदारवित्ता मनुष्या आसवकरकापीतमदिरैगणिकाजनैर्ये मुक्तास्ते पिबन्ति । आदिशतु भवती।
(ख) एत्वेत्वार्यः । इमं सप्तमं प्रकोष्ठं प्रविशत्वार्यः । काकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयतेऽनवरतं सशृङ्गारं मदिरा । इमेऽन्येऽवज्ञातपुत्रदारवित्ता मनुष्या आसवकरकेणापीतमदिरा गणिकाजनैर्ये मुक्तास्ते वाटं पिबन्ति । अयमर्थः-मद्यपानभाण्डेनापीतमद्या अनादृतनिजपरिवारास्त्यकान्यकर्तव्या अत एव तत्रैवात्यन्तमवस्थाना गणिकाभिर्ये मुक्ता निःसारिता इत्युक्तं ते पुरुषा वारंवारं पुनः पुनर्मद्यमेव पिबन्ति । मदिराया अवारितसत्रत्वमुक्तम् ॥ इह सप्तमे प्रकोष्ठे सुश्लिष्टायां विहङ्गपाल्यां कपोतपालिकायां सुखनिषण्णा[न्य]न्योन्यचुम्बनपराणि
मृ० ११