SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११८ मृच्छकटिके हीणपुण्णाओ विअ गअणादो तारआओ णिवडन्ति कंसतालआ, महुअरविरुभं विअ महुरं वज्जदि वसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अङ्कारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चीअन्ति, णट्टभं पठीअन्ति, संसिङ्गारओ । ओवग्गिदा गववखेसु वादं गेण्हन्ति सलिलगग्गरीओ । आदिसद् भोदी | (क) चेटी - एदु एदु अज्जो । इमं पञ्चमं पओ पविसदु अज्जो । (ख) विदूषकः - (प्रविश्य दृष्ट्वा च ) ही ही भो, इधो वि पञ्चमे पओट्टे अअं दलिद्दजण लोहुप्पादणअरो आहरइ उवचिदो हिङ्गुतेलगन्धो । विविहसुरहिधूमुग्गरेहिं णिच्चं संताविजमाणं णीससदि (क) आश्चर्य भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणय कुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीता गणिकांदारिका नर्त्यन्ते, नाट्यं पाठ्यन्ते सशृङ्गारः (रम्) । अपवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । आदिशतु भवती । (ख) एत्वेत्वार्यः । इमं पञ्चमं प्रकोष्ठं प्रविशत्वार्यः । जलधरा इव गम्भीरं धीरं नदन्ति मुरजाः । क्षीणपुण्या इव गगनात्तारा इव निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन साते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः । गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते । नाट्यं पठ्यते सशृङ्गारः(रम्) । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गयेः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समन्ताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं निःश्वसितीव महानसं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy