SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । त्तसमुल्लसन्तहरिदचूदपल्लवलला मफटिहमङ्गलकलसाभिरामोहअपास्सस्स महासुरखक्खत्थलदुब्भेज्जवज्ज णिरन्तरपडिबद्ध कणअकवाडस्स दुग्गदजणमणोरहा आसकरस्स वसन्तसेणाभवणदुआरस्त सस्सिरी - अदा । जं सच्चं मज्झत्थस्स वि जणस्स बलाद्दिट्टि आआरेदि । (क) चेटी - एदु एदु । इमं पढमं पओट्टं पविसदु अजो । (ख) विदूषकः - (प्रविश्यावलोक्य च ) ही ही भोः, इधो वि पढमे पओट्ठे ससिसङ्खमुणालसच्छाहाओ विणिहिदचुण्णमुट्टि पाण्डुराओ विविहरअणपडिबद्धकञ्चणसोबाणसोहिदाओ पासादपतिओ ओलम्बिदमुत्तादामेहिं फटिहवादाअणमुहचन्देहिं णिज्झाअन्ती विअ उज्जइणिम् । सोत्तिओ विअ सुहोवविट्टो णिद्दा अदि दोवारिभो । ११५ (क) अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकन कौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिद न्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललचञ्चलाग्रहस्तेन इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहे नोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूत पलवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्र निरन्तरप्रतिबद्धकनक कपास्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य श्रीकता । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयति । (ख) एत्वेतु । इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः भाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुहसद्धरितंचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महामुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य 1 दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथम[ ] कोष्ठवर्णनम्—शशिशङ्खमृणालखच्छाभाः विनिहतचूर्णमुष्टिपाण्डुराः विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्कयः अवलम्बितमुक्ताफलदामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy