________________
११४
मृच्छकटिके ... -- चेटी-जं अजआ आणवेदि । (क) (इति निष्क्रान्ता ।)
(विदूषको बन्धुलेन सह प्रविशति ।) विदूषकः-ही ही भोः, तवच्चरणकिलेसविणिजिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि । (ख)
चेटी-पेक्खदु अज्जो अम्हकेरकं गेहदुआरम् । (ग) विदूषकः-(अवलोक्य सविस्मयम् ।) अहो सलिलसित्तमज्जिदकिदहरिदोवलेवणस्स विविहसुअन्धिकुसुमोवहारचित्तलिहिदभूमिभा. अस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलम्बिदैरावणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददन्तिदन्ततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलन्दोलणाललन्तचञ्चलग्गहत्थेण 'इदो एहि' त्ति बाहरन्तेण विअ में सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणथम्भवेदिआणिक्खि
(क) यदाज्ञापयति ।
(ख) आश्चर्य भोः, तपश्चरणक्लेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्ब्राह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि । __ (ग) प्रेक्षतामार्योऽस्मदीयं गेहद्वारम् । अत्रैवाङ्के पञ्चमप्रकोष्टके 'परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करिप्यते । ही ही भो इति विस्मये । तपश्चरणक्लेशविनिर्जितेन खाधीनेन । पुष्पकेण विमानविशेषेण । अकृततपश्चरणक्लेशः । नरयुक्ता नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्येदृशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य । सलिलसिक्तमार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोनामितशी. र्षस्य । उच्छ्रायप्रकर्षपरमेतत् । दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लीदामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन इत एहीति व्याहरतेव मां सौ