________________
११३
चतुर्थोऽङ्कः । चेट:-अध इं । (क) शर्विलक:-तत्र प्रापय प्रियाम् । चेटः-जं अजो आणवेदि । (ख)
मदनिका-जधा अजउत्तो भणादि, अप्पमत्तेण दाव अजउत्तेण होदव्यम् । (ग) (इति निष्क्रान्ता ।) शर्विलकः-अहमिदानी ... ज्ञातीन्विटान्स्वभुजविक्रमलब्धवर्णा__ राजापमानकुपितांश्च नरेन्द्रभृत्यान् । उत्तेजयामि सुहृदः परिमोक्षणाय
यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥ अपि च ।
प्रियसुहृदमकारणे गृहीतं
रिपुभिरसाधुभिराहितात्मशकैः । सरभसमभिपत्य मोचयामि
___ स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥ (इति निष्क्रान्तः।)
(प्रविश्य) चेटी-अजए, दिद्विआ वडसि । अन्ज चारुदत्तस्स सआसादो बम्हणो आअदो । (घ)
वसन्तसेना-अहो, रमणीअदा अन्ज दिवसस्स । ता हजे, सादरं बन्धुलेण समं पवेसेहि णम् । (ङ) (क) अथ किम् । (ख) यदार्य आज्ञापयति । (ग) यथार्यपुत्रो भणति, अप्रमत्तेन तावदार्यपुत्रेण भवितव्यम् । (घ) आर्ये, दिष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्राह्मण आगतः । (ङ) अहो, रमणीयताद्य दिवसस्य । तच्चेटि, सादरं बन्धुलेन समं प्रवेशयैनम् । झातीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन ।