________________
११२
मृच्छकटिके वसन्तसेना-संपदं तुम जेव वन्दणीआ संवुत्ता । ता गच्छ। आरुह पवहणम् । सुमरेसि मम् । (क) शर्विलकः-स्वस्ति भवत्यै । मदनिके,
सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः ।
यत्र ते दुर्लभं प्राप्तं वधूशब्दावगुण्ठनम् ॥ २४ ॥ (इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः ।)
(नेपथ्ये ।) कः कोऽत्र भोः । राष्ट्रियः समाज्ञापयति-एष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः स्वेषु स्वेषु स्थाने प्वप्रमत्तर्भवद्भिर्भवितव्यम्'।
शविलक:--(आकर्ण्य ।) कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् । अथवा
द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । .
संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्टतमः ॥ २५ ॥ भवतु । अवतरामि । (इत्यवतरति ।
मदनिका-(सास्रमञ्जलिं बद्धवा ।) एव्वं णेदम् । ता परं णेदु मं अजउत्तो समीवं गुरुअणाणम् । (ख)
शविलक:- साधु प्रिये, साधु । अस्मच्चित्तसदृशमभिहितम् । (चेटमुद्दिश्य ।) भद्र, जानीषे रेभिलस्यं सार्थवाहस्योदवसितम् ।
(क) सांप्रतं त्वमेव वन्दनीया संवृत्ता । तद्गच्छ । आरोह प्रवहणम् । स्मरसि माम् ।
(ख) एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् । सुदृष्टं इति । यत्र ते इति । हेतावाधारविवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ २४ ॥ द्वयमिति ॥ २५ ॥ उदवसितं गृहम् ॥