________________
चतुर्थोऽङ्कः ।
१०९
वसन्तसेना — को क्खु अवरो उवाओ हुविस्सदि । (क) मदनिका - तस्स ज्जेव अज्जस्स केरओ भविअ एवं अलंकारअं अज्जआए उवणेहि । (ख)
शर्विलक :- एवं कृते किं भवति ।
मदनिका - तुमं दाव अचोरो, सो वि अज्जो अरिणो, अज्जआए सकं अलंकारअं उवगदं भोदि । (ग)
शक्लिकः —–— नन्वतिसाहसमेतत् ।
-
मदनिका — भुइ, उवणेहि । अण्णधा अदिसाहसम् । (घ ) वसन्तसेना - साहु मदणिए, साहु । अभुजिस्सए विअ मन्तिदम् । (ङ) शर्विलक:
मयाप्ता महती बुद्धिर्भवतीमनुगच्छता ।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥
मदनिका - ते हि तुमं इमस्सि कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्ज आए तुह आगमणं णिवेदेमि । (च)
-
शर्विलकः — एवं भवतु ।
मदनिका – (उपसृत्य ।) अज्जए, एसो क्खु चारुदत्तस्स ससादो बम्हणो आअदो । (छ)
(क) कः खल्वपर उपायो भविष्यति ।
(ख) तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय । (ग) त्वं तावदचौरः, सोऽप्यार्योऽनृणः, आर्यया स्वकोऽलंकार उपगतो भवति ।
(घ) अयि, उपनय । अन्यथातिसाहसम् ।
ङ) साधु मदनिके, साधु । अभुजिष्ययेव मन्त्रितम् ।
(च) तेन हि त्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि |
(छ) आर्ये, एष खलु चारुदत्तस्य सकाशाद्ब्राह्मण आगतः ।
अथ निजपतित्वेनैवमाह-- तुमं जेवेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । म
मृ० १०