________________
१०८
मृच्छकटिके
वसन्तसेना-कधं एसो वि संतप्पदि जेव । ता अजाणन्तेण एदिणा एव्वं अणुचिट्ठिदम् । (क)
शर्विलक:-मदनिके, किमिदानी युक्तम् । मदनिका-इत्थं तुमं जेव पण्डिओ । (ख) शर्विलक:-नैवम् । पश्य । स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः ।
पुरुषाणां तु पाण्डित्यं शास्त्रैरेवोपदिश्यते ॥ १९ ॥ मदनिका—सविलअ, जइ मम वअणं सुशीअदि, ता तस्स जेव महाणुभावस्स पडिणिज्जादेहि । (ग)
शर्विलकः-मदनिके, यद्यसौ राजकुले मां कथयति । मदनिका–ण चन्दादो आदवो होदि । (घ) वसन्तसेना-साहु मदणिए, साहु । (ङ) शर्विलक:-मदनिके, न खलु मम विषादः साहसेऽस्मिन्भयं वा
कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् । जनयति मम वेदं कुत्सितं कर्म लज्जां
नृपतिरिह शठानां मादृशां किं नु कुर्यात् ॥ २० ॥ तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् ।
मदनिका-सो अअं अवरो उवाओ। (च) (क) कथमेषोऽपि संतप्यत एव । तदजानतैतेनैवमनुष्ठितम् । (ख) अत्र त्वमेव पण्डितः ।
(ग) शर्विलक, यदि मम वचनं श्रूयते, तदा तस्यैव महानुभावस्य प्रतिनिर्यातय ।
(घ) न चन्द्रादातपो भवति । (ङ) साधु मदनिके, साधु । (च) सोऽयमपर उपायः । ॥ १८ ॥ स्त्रिय इति ॥ १९ ॥ न खल्विति ॥ २० ॥