SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके वसन्तसेना-हजे, तस्स केरअं त्ति कधं तुमं जाणासि । (क) मदनिका - अज्जए, अत्तणकेरअं वि ण जाणामि । (ख) वसन्तसेना- - (स्वगतं सशिरःकम्पं विहस्य 1) जुज्जदि । (प्रकाशम् ।) पविसदु । (ग) ११० मदनिका - जं अज्जआ आणवेदि । (उपगम्य । ) पविसदु सव्विलओ । (घ) शर्विलकः– (उपसृत्य सवैलक्ष्यम् ।) स्वस्ति भवत्यै । वसन्तसेना – अज्ज, वन्दामि । उवविसदु अज्जो । (ङ) शर्विलकः– सार्थवाहस्त्वां विज्ञापयति – 'जर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् । तद्गृह्यताम्' । (इति मदनिकायाः सम॰प्रस्थितः ।) वसन्तसेना – अज्ज, ममावि दाव पडिसंदेसं तहिं अज्जो णेदु । (च) 1 शर्विलकः - (स्वगतम् । ) कस्तत्र यास्यति । ( प्रकाशम् ।) कः प्रतिसंदेशः । वसन्तसेना - परिच्छदु अज्जो मदणिअम् । (छ) शर्विलकः - भवति, न खल्ववगच्छामि । वसन्तसेना – अहं अवगच्छामि । (ज) शर्विलकः कथमिव । वसन्तसेना – अहं अज्जचारुदत्तेण भणिदा – 'जो इमं अ (क) चेटि, तस्य संबन्धीति कथं त्वं जानासि । (ख) आर्ये, आत्मसंबन्धिनमपि न जानामि । (ग) युज्यते । प्रविशतु । (घ) यदार्याज्ञापयति । प्रविशतु शर्विलकः । (ङ) आर्य, वन्दे । उपाविशत्वार्यः । (च) आर्य, ममापि तावत्प्रतिसंदेशं तत्रार्यो नयतु । (छ) प्रतीच्छत्वायें मदनिकाम् । (ज) अहमवगच्छामि । येति ॥ २१ ॥ अत्तणकेरअं वीति चारुदत्तस्यानुचरत्वं स्वीकृत्य ब्रूते ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy