________________
चतुर्थोऽङ्कः। (वसन्तसेना मदनिका च मूच्छी नाटयतः ।) शर्विलक:-मदनिके, समाश्वसिहि । किमिदानीं त्वं विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना ।
नीयमानाभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥ मदनिका-(समाश्वस्य ।) साहसिअ, ण क्खु तुए मम कारणादो इमं अकजं करन्तेण तस्सि गेहे कोवि वावादिदो परिक्खदो वा । (क)
शर्विलकः--मदनिके, भीते सुप्ते न शर्विलकः प्रहरति । तन्मया न कश्चिद्वयापादितो नापि परिक्षतः।
मदनिका-सच्चम् । (ख) शर्विलकः-सत्यम् । वसन्तसेना—(संज्ञां लब्ध्वा ।) अम्महे, पञ्चुवजीविद म्हि । (ग) मदनिका-पिअम् । (घ) शर्विलक:-(सेय॑म् ।) मदनिके, किं नाम प्रियमिति ।
त्वत्स्नेहबद्धहृदयो हि करोम्यकार्य
सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः । रक्षामि मन्मथविपन्नगुणोऽपि मानं
मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ९॥ (साकूतम् ।)
(क) साहसिक, न खलु त्वया मम कारणादिदमकार्य कुर्वता तस्मिन्गेहे कोऽपि व्यापादितः परिक्षतो वा ।
(ख) सत्यम् । (ग) आश्चर्यम् , प्रत्युपजीवितास्मि ।
(घ) प्रियम् । जनः शर्विलकः' इति प्राचीनटीका । तन्न बुद्धयते । वेश्यात्वे वसन्तसेनाया निभृतं संगतमित्यभिप्रायः ॥ विषादेति ॥ ८ ॥ त्वदिति । मन्मथेन विपन्नो गुणो यस्य । ईदृशोऽपि देहं रक्षामि । मदनिकार्थचौर्याहरणेन हीनगुणत्वं