________________
१०४
मृच्छकटिके
शर्विलक:नो मुष्णाम्यबलां विभूषणवती फुल्लामिवाहं लतां
विप्रखं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धृतम् । धाव्युत्सङ्गगतं हरामि न तथा बालं धनार्थी कचि
कार्याकार्यविचारिणी मम मतिश्चौर्येऽपि नित्यं स्थिता॥६॥ तद्विज्ञाप्यतां वसन्तसेना
'अयं तव शरीरस्य प्रमाणादिव निर्मितः ।।
अप्रकाशो ह्यलंकारो मत्स्नेहाद्धार्यतामिति ॥ ७ ॥ मदनिका-सविलअ, अप्पकाशो अलंकारओ । अअं च जणो त्ति दुवेवि ण जुजदि। ता उवणेहि दाव । पेक्खामि एवं अलंकारअम् । (क)
शर्विलकः-इदमलंकरणम् । (इति साशकं समर्पयति ।) मदनिका-(निरूप्य ।) दिवपुरुव्वो विअ अ अलंकारओ । ता भणेहि कुदो दे एसो । (ख)
शर्विलक:-मदनिके, किं तवानेन । गृह्यताम् ।।
मदनिका-(सरोषम् ।) जइ मे पच्चों ण गच्छसि, ता किंणिमित्तं मं णिकिणसि । (ग)
शर्विलक:-अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा'सार्थवाहस्य चारुदत्तस्य' इति ।
(क) शर्विलक, अप्रकाशोऽलंकारः । अयं च जन इति द्वयमपि न युज्यते । तदुपनय तावत् । पश्याम्येतमलंकारम् । (ख) दृष्टपूर्व इवायमलंकारः । तद्गण कुतस्त एषः । (ग) यदि मे प्रत्ययं न गच्छसि, तत्किनिमित्तं मां निष्क्रीणासि । खल्वाचरितम् , अपि त्वाचरितमेव ॥ नो मुष्णामीति । शुद्वर्णहरणे न तथा पातकमिति विप्रेत्यादिनोक्तम् ॥ ६ ॥ अयमिति । तव वान्तसेनायाः ॥ अनुचितः प्रकाशो यस्य सोऽप्रकाशः । अनेनास्माकं दण्ड इत्यनेन न प्रकाशयितव्य इत्यर्थः ॥ ७ ॥ अयं जनो वसन्तसेनास्वरूपः । अपिरनुनये । 'अयं