SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। १०३ मदनिका-सविलअ, भणिदा मए अजआ । तदो भणादि -'जइ मम छन्दो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करइस्सम्' । अध सबिलअ, कुदो दे एत्तिओ विहवो, जेण मं अजआसआसादो मोआइस्ससि । (क) शर्विलक: दारियेणाभिभूतेन त्वत्स्नेहानुगतेन च । ___ अद्य रात्रौ मया भीरु त्वदर्थे साहसं कृतम् ॥ ५ ॥ वसन्तसेना-पसण्णा से आकिदी, साहसकम्मदाए उण उव्वेअणीआ.। (ख) मदनिका-सविलअ, इत्थीकल्लवत्तस्स कारणेण उहअं पि संसए विणिक्खित्तम् । (ग) शर्विलकः-किं किम् । मदनिका-सरीरं चारित्तं च । (घ) शर्विलक:-अपण्डिते, साहसे श्रीः प्रतिवसति । मदनिका-सविलअ, अखण्डिदचारित्तो सि । ता ण हु ते मम कारणादो साहसं करन्तेण अञ्चन्तविरुद्धं आचरिदम् । (ङ) (क) शर्विलक, भणिता मयार्या । तदा भणति-'यदि मम छन्दस्तदा विनार्थ सर्व परिजनमभुजिष्यं करिष्यामि । अथ शविलक, कुतस्त एतावान्विभवः, येन मामार्यासकाशान्मोचयिष्यसि । (ख) प्रसन्नास्याकृतिः, साहसकर्मतया पुनरुद्वेजनीया । (ग) शर्विलक, स्त्रीकल्यवर्तस्य कारणेनोभयमपि संशये विनिक्षिप्तम् । (घ) शरीरं चारित्रं च । (ङ) शर्विलक, अखण्डितचारित्रोऽसि । तन्न खलु त्वया मम कारणात्साहसं कुर्वतात्यन्तविरुद्धमाचरितम् । प्याम् । स्वाधीनामिति यावत् ॥ मम छन्दो ममाभिलाषः ॥ दारिद्येणेति । साहसं चौर्यरूपम् ॥ ५ ॥ साहसे जीवितानपेक्षकर्मणि । ण हु ते इति । न
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy