________________
१०२
मृच्छकटिकेवसन्तसेना-चिरअदि मणिमा। ता कहिं णु क्खु सा । (गवाक्षकेन दृष्ट्वा ।) कथम् । एसा केनावि पुरिसकेण संह मन्तअन्ती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्ठीए आपिबन्ती विभ एवं निज्झाअदि, तधा तक्केमि, एसो सो जणो एवं इच्छदि अभुजिस्सं कादुम् । ता रमदु रमदु । मा कस्सावि पीदिच्छेदो भोदु । ण क्खु सद्दाविस्सम् । (क) मदनिका-सविलअ, कधेहि । (ख)
(शर्विलकः सशकं दिशोऽवलोकयति ।) मदनिका—सविलअ, किं प्रणेदम् । ससको विअ लक्खीअसि । (ग) ' शर्विलक:-वक्ष्ये त्वां किंचिद्रहस्यम् । तद्विविक्तमिदम् । मदनिका-अध इं । (घ) वसन्तसेना-कधं परमरहस्सम् । ता ण सुणिस्सम् । (ङ)
शर्विलक:-मदनिके, किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ।
वसन्तसेना-कधं मम संबन्धिणी कधा । ता सुणिस्सं इमिणा गवक्खेण ओवारिदसरीरा । (च)
___ (क) चिरयति मदनिका । तत्कुत्र नु खलु सा । कथम् । एषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति । यथातिस्निग्धया निश्चलदृष्टया पिबन्तीवैतं निध्यायति, तथा तर्कयामि, एष स जन एनामिच्छत्यभुजिष्यां कर्तुम् तद्रमतां रमताम् । मा कस्यापि प्रीतिच्छेदो भवतु । न खल्वाकारयिष्यामि ।
(ख) शर्विलक, कथय । (ग) शर्विलक, किं न्विदम् । सशङ्क इव लक्ष्यसे । (घ) अथ किम् । (ङ) कथं परमरहस्यम् । तन्न श्रोष्यामि । (च) कथं मम संबन्धिनी कथा । तच्छ्रोष्याम्यनेन गवाक्षेणापवारितशरीरा।