SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः ___ कचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम् । नरपतिबले पार्शयाते स्थितं गृहदारुव द्वयवसितशतैरेवंप्रायैनिशा दिवसीकृता ॥ ३ ॥ (इति परिक्रामति ।) वसन्तसेना-हले, इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेण्टअं गेण्हिअ लहु आअच्छ । (क) मदनिका-जु अजआ आण्णवेदि । (ख) (इति फलकं गृहीत्वा निष्कान्ता ।) शविलकः-इदं वसन्तसेनाया गृहम् । तद्यावत्प्रविशामि । (प्रविश्य ।) क नु मया मदनिका द्रष्टव्या । (ततः प्रविशति तालवृन्तहस्ता मदनिका ।) शर्विलकः-(दृष्ट्वा ।) अये, इयं मदनिका । मदनमपि गुणैर्विशेषयन्ती रतिरिव मूर्तिमती विभाति येयम् । मम हृदयमनङ्गवह्नितप्तं - भृशमिव चन्दनशीतलं करोति ॥ ४ ॥ मदनिके। मदनिका-(दृष्ट्वा ।) अम्मो, कधं सव्विलओ । सव्विल अ, साअदं दे कहिं तुमम् । (ग) शर्विलकः-कथयिष्यामि । (इति सानुरागमन्योन्यं पश्यतः ।) (क) चेटि, इमं तावच्चित्रफलकं मम शयनीये स्थापयित्वा तालवृन्तं गृहीत्वा लघ्वागच्छ । (ख) यदाज्ञापयति । (ग) आश्चर्यम् , कथं शर्विलकः । शर्विलक, स्वागतं ते । कुत्र त्वम् । संभ्रान्तं माम् ॥ २ ॥ परिजनेति ॥ ३ ॥ मदनमिति ॥ ४॥ अभुजिस्सं अप्रे
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy