________________
मृच्छकटिके
वसन्तसेना-(सक्रोधम् ।) अवेहि । मा पुणो एव्वं भणिस्ससि । (क)
चेटी-पसीददु पसीददु अजआ। संदेसेण म्हि पेसिदा । (ख) वसन्तसेना-अहं संदेसस्स जेव कुप्पामि । (ग) चेटी--ता किंति अत्तं विण्णविस्सम् । (घ)
वसन्तसेना-एव्वं विण्णाविदव्वा—'जइ मं जीअन्ती इ. च्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । (ङ) . चेटी-जधा दे रोअदि। (च) (इति निष्क्रान्ता ।)
(प्रविश्य) शर्विलकः
दत्त्वा निशाया वचनीयदोषं
निद्रां च जित्वा नृपतेश्च रक्ष्यान् । स एष सूर्योदयमन्दरश्मिः
क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥ १ ॥ अपि च ।
यः कश्चित्त्वरितगतिनिरीक्षते मां
संभ्रान्तं द्रुतमुपसर्पति स्थितं वा । तं सर्वं तुलयति दूषितोऽन्तरात्मा
स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ २ ॥ मया खलु मदनिकायाः कृते साहसमनुष्ठितम् । (क) अपेहि । मा पुनरेवं भणिष्यसि । (ख) प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता । (ग) अहं संदेशस्यैव कुप्यामि । (घ) तत्किमिति मातरं विज्ञापयिष्यामि । (ङ) एवं विज्ञापयितव्या-'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राज्ञापयितव्या' । .
(च) यथा ते रोचते । विष्णविस्सं विज्ञापयिष्यामि ॥ दत्त्वेति ॥ १ ॥ य इति । लरितगतिः कश्चित् ।