________________
चतुर्थोऽङ्कः ।
(ततः प्रविशति चेटी ।) चेटी-आणत्तम्हि अत्ताए अजआए सआसं गन्तुम् । एसा अजआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किंपि मन्तअन्ती चिट्ठदि । ता जाव उवसप्पामि । (क) (इति परिकामति ।)
___ (ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च ।) वसन्तसेना-हले मदणिए, अबि सुसदिसी इमं चित्ताकिदी अजचारुदत्तस्स । (ख)
मदनिका-सुसदिसी । (ग) वसन्तसेना-कधं तुमं जाणासि । (घ) मदनिका-जेण अजआए सुसिणिद्धा दिट्टि अणुलग्गा। (ङ)
वसन्तसेना-हले, किं वेसवासदाक्खिण्णेण मदणिए, एव्वं भणासि । (च)
मदनिका-अजए, किं जो जेव जणो वेसे पडिवसदि, सो ज्जैव अलीअदक्खिणो भोदि । (छ)
(क) आज्ञप्तास्मि मात्रार्यायाः सकाशं गन्तुम् । एषार्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यावदुपसामि । - (ख) चेटि मदनिके, अपि सुसदृशीयं चित्राकृतिरार्यचारुदत्तस्य ।
(ग) सुसदृशी। (घ) कथं त्वं जानासि । (ङ) येनार्यायाः सुस्निग्धा दृष्टिरनुलग्ना । (च) चेटि, किं वेवासदाक्षिण्येन मदनिके, एवं भणसि । (छ) आर्ये, किं य एव जनो वेशे प्रतिवसति, स एवालीकदक्षिणो भवति ।