SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । ९७ मैत्रेय, गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् । वक्तव्या च सा मद्वचनात् —'यत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्दचूते हारितम् । तस्य कृते गृह्यतामियं रत्नावली' इति । विदूषकः— मा दाव अक्खाइदस्त अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवदिस्त कारणादो चतुःसमुद्दसारभूदा रअणावली दी - अदि । (क) चारुदत्तः – वयस्य, मा मैवम् । - यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः । तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २९ ॥ तद्वयस्य, अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक, एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् | परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥ ३० ॥ वयस्य मैत्रेय, भवताप्यकृपणशौण्डीर्यमभिधातव्यम् । विदूषकः - भो, दलिद्दो किं अकिविणं मन्तेदि । (ख) चारुदत्तः - अदरिद्रोऽस्मि सखे, यस्य मम । ( 'विभवानुगता भार्या ' (३।२८) इत्यादि पुनः पठति ।) तद्गच्छतु भवान् । अहमपि कृतशौचः संध्यामुपासे । ( इति निष्क्रान्ताः सर्वे 1) इति संधिच्छेदो नाम तृतीयोऽङ्कः । (क) मा तावदखादितस्यामुक्तस्याल्पमूल्यस्य चैौरैरपहृतस्य कारणाचतु:समुद्रसारभूता रत्नावली दीयते । (ख) भोः, दरिद्रः किमकृपणं मन्त्रयति । चतुःसमुद्देति । चतुःसमुद्राणां रत्नाकराणां सारभूता ॥ यमिति । समालम्व्येत्याद्यपूर्वोऽपि सोहणसवनविभवेति (?) । कुलीनत्वादेरित्यर्थः (१) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥ इति संधिच्छेदो नाम तृतीयोऽङ्कः । मृ० ९
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy