________________
मृच्छकटिके
विदूषकः - (गृहीला ।) सोत्थि । गमिस्सम् । पिअवअस्सस्स
- ।
णिवेदेमि । (क)
९६
वधूः – अज्जमित्तेअ, मा क्खु मं लज्जावेहि । (ख) (इति नि
ष्क्रान्ता ।)
विदूषकः—–— (सविस्मयम् ।) अहो, से महाणुभावदा । (ग) चारुदत्तः - अये चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्य कुर्यात् । मैत्रेय, मैत्रेय ।
।
।
विदूषकः - ( उपसृत्य ) एसो म्हि । गेण्ह एदम् । (घ) (रत्ना
। ।
वलीं दर्शयति ।)
चारुदत्तः - किमेतत् ।
विदूषकः - भो, जं दे सरिसदारसंगहस्स फलम् । (ङ) चारुदत्तः - कथम् । ब्राह्मणी मामनुकम्पते । कष्टम् । इदानी - मस्मि दरिद्रः ।
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ २७ ॥ अथवा । नाहं दरिद्रः । यस्य मम
विभवानुगता भार्या सुखदुःखसुहृद्भवान् । सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८ ॥
ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः ' तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् ।
(क) स्वस्ति । गमिष्यामि । प्रियवयस्यस्य निवेदयामि |
(ख) आर्यमैत्रेय, मा खलु मां लज्जितां कुरु ।
(ग) अहो, अस्या महानुभावता । (घ) एषोऽस्मि । गृहाणैताम् ।
(ङ) भोः, यत्ते सदृशदारसंग्रहस्य फलम् ।
दिगवलम्बितमुख इत्यर्थः ॥ रअणसहिं रत्नषष्टिकाभिधं व्रतम् । 'अरण्यषष्ठिका नाम ग्रीष्मव्रतम्' इत्येके ।। आत्मेति ॥ २७ ॥ विभवेति ॥ २८ ॥