________________
तृतीयोऽङ्कः ।
९३
विदूषकः - भो, जदा तुमं मए भणिदो सि- 'शीदलो दे
अग्गहत्थो' । (क)
चारुदत्तः — कदाचिदेवमपि स्यात् । ( सर्वतो निरूप्य सहर्षम् ।)
वयस्य, दिष्ट्या ते प्रियं निवेदयामि |
विदूषकः - किं ण अवहिदम् । (ख) चारुदत्तः—–— हृतम् ।
विदूषकः - तधा वि किं पिअम् । (ग) चारुदत्तः —- यदसौ कृतार्थो गतः । विदूषकः - णासो क्खु सो । (घ) चारुदत्तः — कथं न्यासः । (मोहमुपगतः । )
1
-
विदूषकः- समस्ससद् भवम् । जइ णासो चोरेण अवहिदो
तुमं किं मोहं उबगदो । (ङ)
चारुदत्तः -- ( समाश्वस्य ।) वयस्य,
कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ २४ ॥ भोः, कष्टम् ।
यदि तावत्कृतान्तेन प्रणयोऽर्थेषु मे कृतः । किमिदानीं नृशंसेन चारित्रमपि दूषितम् ॥ २५ ॥ विदूषकः - अहं क्खु अवलविस्सम्— 'केण दिण्णम्, केण गहिदम्, को वा सक्खि' त्ति । (च)
(क) भोः, यदा त्वं मया भणितोऽसि - - ' शीतलस्तेऽग्रहस्तः' ।
किं नापहृतम् ।
(ग) तथापि किं प्रियम् ।
(घ) न्यासः खलु सः ।
(ङ) समाश्वसितु भवान् । यदि न्यासश्चौरेणापहृतस्त्वं किं मोहमुपगतः । (च) अहं खल्वपलपिष्यामि – 'केन दत्तम्, केन गृहीतम्, को वा साक्षी' इति ।
क इति । निष्प्रतापा निष्पौरुषा ॥ २४ ॥ यदीति । प्रणयोऽर्थित्वम् ॥ २५ ॥