________________
९२
मृच्छकटिके
चारुदत्तःवैश्येन कृतो भवेन्मम गृहे व्यापारमभ्यस्यता नासौ वेदितवान्धनैर्विरहितं विस्रब्धसुप्तं जनम् । दृष्ट्वा प्राङ्महतीं निवासरचनामस्माकमाशान्वितः संधिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥ २३ ॥ ततः सुहृद्भयः किमसौ कथयिष्यति तपस्वी – 'सार्थवाहसुतस्य गृहं प्रविश्य न किंचिन्मया समासादितम्' इति ।
विदूषकः - भो, कधं तं ज्जेव चोरहदअं अणुसोचसि । तेण चिन्तिदं महन्तं एवं गेहम् । इदो रअणभण्डअं सुवण्णभण्डअं वा णिक्कामिस्सम् । (स्मृत्वा सविषादमात्मगतम् ।) कहिं तं सुवण्णभण्डअम् । (पुनरनुस्मृत्य प्रकाशम् ।) भो वअस्स, तुमं सव्वकालं भणासि - 'मुक्खो मित्तेअओ, अपण्डिदो मित्तेअओ' त्ति । सुड्डु मए किदं तं सुवण्णभण्डअं भवदो हत्थे समप्पअन्तेण । अण्णधा दासीए पुत्तेण अवहिदं भवे । (क)
चारुदत्तः - अलं परिहासेन ।
विदूषकः - भो, जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि । (ख)
चारुदत्तः -- कस्यां वेलायाम् ।
(क) भोः, कथं तमेव चौरहतकमनुशोचसि । तेन चिन्तितं महदेत - गृहम् । इतो रत्नभाण्डं सुवर्णभाण्डं वा निष्क्रामयिष्यामि । कुत्र तत्सुवर्ण - भाण्डम् । भो वयस्य, त्वं सर्वकालं भणसि - 'मूर्खो मैत्रेयः, अपण्डितो मैत्रेयः' इति । सुष्ठु मया कृतं तत्सुवर्णभाण्डं भवतो हस्ते समर्पयता । अन्यथा दास्याः पुत्रेणापहृतं भवेत् ।
(ख) भोः, यथा नामाहं मूर्खस्तत्किं परिहासस्यापि देशकालं न जानामि ।
वैदेश्येनेति ॥ २३ ॥ णिक्कामिस्सं निष्क्रामयिष्यामि । बहिः करिष्यामीति । यावत् । अवहि (ह)दं अपहृतम् ॥ दिष्टया हर्षे ॥ ण अवहिदं नापहृतम् ।