SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९१ तृतीयोऽङ्कः । रदनिका-हदास,अलंपरिहासेण । किं ण पेक्खणि एणम्।(क) विदूषकः-आः दासीए धीए, किं भणासि–'दुदिअं विभ दुआरअं उग्घाडिदं' ति । भो वअस्स चारुदत्त, उद्वेहि उडेहि । अम्हाणं गेहे संधि दइअ चोरो णिक्वन्तो । (ख) चारुदत्तः-भवतु । भोः, अलं परिहासेन । विदूषकः-भो, ण परिहासो । पेक्खदु भवम् । (ग) चारुदत्तः–कस्मिन्नुद्देशे। . विदूषकः-भो, एसो। (घ) चारुदत्तः—(विलोक्य ।) अहो दर्शनीयोऽयं संधिः । उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे । असदृशजनसंप्रयोगभीरो हृदयमिव स्फुटितं महागृहस्य ॥ २२ ॥ कथमस्मिन्नपि कर्मणि कुशलता । विदूषकः-भो वअस्स, असं संधी दुवेहिं जेव दिण्णो भवे । आदु आगन्तुएण, सिक्खिदुकामेण वा । अण्णधा इध उजइणीए को अम्हाणं घरविहवं ण जाणादि । (ङ) (क) हताश, अलं परिहासेन । किं न प्रेक्षस एनम् । (ख) आ दास्याः पुत्रिके, किं भणसि–'द्वितीयमिव द्वारमुद्घाटितम्' इति । भो वयस्य चारुदत्त, उत्तिष्ठोत्तिष्ठ । अस्माकं गेहे संधिं दत्त्वा चौरो निष्क्रान्तः। (ग) भोः, न परिहासः । प्रेक्षतां भवान् । (घ) भोः, एषः। (ङ) भो वयस्य, एष संधिाभ्यामेव दत्तो भवेत् । अथवागन्तुकेन, शिक्षितुकामेन वा । अन्यथात्रोजयिन्यां कोऽस्माकं गृहविभवं न जानाति । येत्यर्थः ॥ उपरीति । उपरिभागे तलभागे च विनिपातिता आकृष्टा इष्टका यत्र । 'उपरितन-' इति पाठ उपरितनी उपरिभवा । शेषं तुल्यम् ॥ २२ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy