________________
९०
मृच्छकटिके
माया रूपशरीरवेशरचने वाग्देशभाषान्तरे
दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौर्जले ॥ २० ॥
अपि च ।
भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः ।
शश इव भुवनावलोकनेऽहं
वृक इव च ग्रहणे बले च सिंहः ॥ २१ ॥ (प्रविश्य)
रदनिका — हद्धी हद्धी, बाहिरदुआरसालाए पत्तो वडूमाओ । सोविएत्थ ण दीसह । भोदु । अज्जमित्तेअं सहावेमि । (क) (इति परिक्रामति ।)
शर्विलकः - ( रदनिकां हन्तुमिच्छति । निरूप्य ।) कथं स्त्री । भवतु । गच्छामि । ( इति निष्क्रान्तः ।)
रदनिका - ( गत्वा सत्रासम् ।) हद्धी हद्धी, अम्हाणं गेहे संधि कप्पिअ चोरो णिक्कमति । भोदु । मित्तेभं गदुअ पबोधेमि । (विदूषकमुपगम्य ।) अज्जमित्तेअ, उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधि कप्पिr चोरो णिक्कन्तो । (ख)
विदूषकः - (उत्थाय ।) आ: दासीए धीए, किं भणासि - 'चोरं कप्पिअ संधी णिक्कन्तो' । (ग)
(क) हा धिक् हा धिक्, बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु । आर्यमैत्रेयमाह्वयामि ।
(ख) हा धिक् हा धिक् अस्माकं गृहे संधिं कर्तयित्वा चौरो निष्क्रमति । भवतु । मैत्रेयं गत्वा प्रबोधयामि । आर्यमैत्रेय, उत्तिष्ठोत्तिष्ठ । I अस्माकं गेहे संधि कर्तयित्वा चौरो निष्क्रान्तः ।
(ग) आः दास्याः पुत्रिके, किं भणसि - 'चौरं कर्तयित्वा संधिनिष्क्रान्तः' ।
शाम्बरी विद्या । रूपमाकारम् । वेशोऽलंकारादियोजना | डुडुम उहुंसः ॥ २० ॥ भुजग इति । वृक इति हुण्डार इति प्रसिद्धः || २१ || कप्पिअ क्लृप्त्वा । निर्मा
1