________________
मृच्छकटिके
पद्मव्याकोश भास्कर बालचन्द्र
वापी विस्तीर्ण स्वस्तिकं पूर्णकुम्भम् । तत्कस्मिन्देशे दर्शयाम्यात्मशिल्पं
दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥ १३ ॥ तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभते । तमुत्पादयामि ।
अन्यासु भित्तिषु मया निशि पाटितासु
क्षारक्षतासु विषमासु च कल्पनासु । दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गों
. दोषांश्च मे वदति कर्मणि कौशलं च ॥ १४ ॥ नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता।
अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ १५ ॥ (तथा करोति ।) धिक्कष्टम् । प्रमाणसूत्रं मे विस्मृतम् । (विचिन्त्य ।)
आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः ।
एतेन मापयति भित्तिषु कर्ममार्ग- मेतेन मोचयति भूषणसंप्रयोगान् । उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनं च ॥ १६ ॥ पद्मव्याकोशमित्यादि । वैश्वदेवीछन्दः । वापी विस्तीर्णमिति द्वे नामनी । यदुक्तवान्'इष्टकाभित्तौ च संस्कारवशेन पद्मव्याकोशादयः सप्त संज्ञाः' इति । भास्करो मण्डलाकारः । अन्येऽपि नामसदृशाः सप्त संधयः ॥ १३॥ अन्याविति । कौशलं चेति चकारोऽप्यर्थे ॥ १४ ॥ कार्तिकेयः परमगुरुः । 'ब्रह्मण्यदेवादयोऽपरगुरवः' इत्याहुः। 'सर्वे कार्तिकेयविशेषणम्' इत्येके । 'ब्रह्मण्याय देवाय' इति क्वचित्पाठः ॥ अनयेति ॥ १५ ॥ एतेनेति । कर्मसु संधिरचनासु ।भूषण