________________
तृतीयोऽङ्कः ।
1
मापयित्वा कर्म समारभे । ( तथा कृत्वावलोक्य च । ) एकलोष्टावशेषोऽयं संधिः । धिक्कष्टम् | अहिना दष्टोऽस्मि । (यज्ञोपवीतेनाङ्गुलीं बवा विषवेगं नाटयति । चिकित्सां कृत्वा ।) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ।) अये, ज्वलति प्रदीपः । तथा हि । शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता । विभाति पर्यन्ततमः समावृता
८७
सुवर्णरेखेव कषे निवेशिता ॥ १७ ॥
(पुनः कर्म कृत्वा ।) समाप्तोऽयं संधिः । भवतु । प्रविशामि । अथवा न तावत्प्रषिशामि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा । ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य दृष्ट्वा च ।) अये, पुरुषद्वयं सुप्तम् । भवतु । आत्मरक्षार्थं द्वारमुद्घाटयामि । कथं जीर्णत्वाद्गृहस्य विरौतिकपाटम् । तद्यावत्सलिलमन्वेषयामि । क न खलु सलिलं भविष्यति । (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्सशङ्कम् ।) मा तावद्भूमौ पतच्छब्दमुत्पादयेत् । भवतु । एवं तावत् । (पृष्ठेन प्रतीक्ष्य कपाटमुद्धाव्य ।) भवतु । एवं तावत् । इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् । ( त्रासयित्वा परीक्ष्य च ।) अये, परमार्थसुप्तेनानेन भवितव्यम् । तथा हि ।
1)
निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला । गात्रं स्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिकं
दीपं चापि न मर्षयेदभिमुखं स्याल्लक्ष्यसुप्तं यदि ॥ १८ ॥ (समन्तादवलोक्य ।) अये, कथं मृदङ्गः । अयं दर्दुरः । अयं पणवः । इयमपि वीणा । एते वंशाः । अमी पुस्तकाः । कथं नाट्यासंप्रयोगानिति कटकादेर्धर्माव कीलकसुश्लिष्टसंयोजनाभेदान् ॥ १६ ॥ शिखेति ॥ १७ ॥ 'प्रतीक्ष्य' इत्यत्र 'प्रतीच्छय' इति पाठो दृश्यते । तच्च प्रतीच्छाग्रहणं कृत्वेत्यत्रार्थे णिच्समासे क्त्वाप्रत्यये ल्यपि रूपम् । लक्ष्यसुप्तं व्याजसुप्तम् । निःश्वास इति । तुल्यमविषयमन्तरमन्तरालो यथा स्यादेवं वर्तते ।