________________
तृतीयोऽङ्कः ।
नृपतिपुरुषशङ्कितप्रचारं परगृहदूषणनिश्चितैकवीरम् । घनपटल मोनिरुद्धतारा
रजनिरियं जननीव संवृणोति ॥ १० ॥
वृक्षवाटिकापरिसरे संधिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्यावदिदानीं चतुःशालकमपि दूषयामि । भोः,
कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते विश्वस्तेषु च वञ्चनापरिभवश्चौर्य न शौर्य हि तत् । स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि -
मर्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना ॥ ११ ॥ तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ।
देश : को नु जलावसेकशिथिलो यस्मिन्न शब्दो भवेद्वित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् । क्षारक्षीणतया च लोष्टककृशं जीर्ण व हर्म्यं भवे
त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ १२ ॥ (भित्तिं परामृश्य ।) नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षारक्षीणा । मूषिकोत्करश्चेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्रारम्भे कीदृशमिदानीं संधिमुत्पादयामि । इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो दर्शितः । तद्यथा — पक्केष्टकानामाकर्षणम्, आमेष्टकानां छेदनम्, पिण्डमयानां सेचनम्, काष्ठमयानां पाटनमिति । तदत्र पक्वेष्टक इष्टिकाकर्षणम् । तत्र
कञ्चुको गच्छति ॥ ९ ॥ नृपतीति । पटलं वृन्दं रोगभेदश्च । तारा नक्षत्रमक्ष्णः कनीनिका च ॥ १० ॥ काममिति । अश्वत्थाम्ना पाण्डवपक्षपातिनो राजानो रात्रौ संधिं कृत्वा मारिताः । सौप्तिकमिति भावक्लान्तादध्यामोदित्वात् (?) ॥११॥ देश इति । संधिः किंभूतः । दर्शनान्तरगतो दर्शनान्तरं कनकशक्त्यादिमत-विशेषस्तदनुगतस्तद्बोधितः । करालो विपरीतः । स्त्रीजनदर्शनं हि तदनिष्टाचरणं वीरजनगर्हितं संभाव्येत ॥ १२ ॥ स्कन्दपुत्राणां स्कन्दोपजीविचौराचार्याणाम् ॥
मृ० ८