________________
८४
मृच्छकटिके
HTML.
चारुदत्त:
अलं चतुःशालमिमं प्रवेश्य
प्रकाशनारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ताव
द्यावन्न तस्याः खलु भोः समर्प्यते ॥ ७ ॥ (निद्रां नाटयन् , 'तं तस्य खरसंक्रमम्-' (३५) इति पुनः पठति ।) विदूषकः-अवि णिद्दाअदि भवम् । (क) चारुदतः अथ किम् ।
इयं हि निद्रा नयनावलम्बिनी
ललाटदेशादुपसर्पतीव माम् । . - अदृश्यरूपा चपला जरेव या
- मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥ विदूषकः-ता सुवेम्ह । (ख) (नाट्येन खपिति ।)
- (ततः प्रविशति शर्विलकः ।) शर्विलक:
कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्गम् । गच्छामि भूमिपरिसर्पणघृष्टपार्यो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥९॥ (नभोऽवलोक्य सहर्षम् ।) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः तथा हि ।
(क) अफि निद्राति भवान् । (ख) तत्स्वपिवः । देमि ददामि (2) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (१) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति। मनुष्यसत्त्वं नृसत्ताम् । मनुष्यमिति यावत् ॥ ८ ॥ कृत्वेति । कर्ममार्ग संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान