________________
तृतीयोऽङ्कः।
८३ चेटः-अजमित्तेअ, देहि उदअम् । (क). - (विदूषकस्तथा करोति । चेटश्चारुदत्तस्य पादौ प्रक्षाल्यापसरति ।)
चारुदत्तः-दीयतां ब्राह्मणस्य पादोदकम् । - विदूषकः-किं मम पादोदएहिं । भूमीए जेव मए ताडिदगद्दहेण विअ पुणोवि लोहिदव्वम् । (ख)
चेट:-अजमित्तेअ, बम्हणे क्खु तुमम् । (ग) विदूषकः-जधा सव्वणागाणं मझे डुण्डहो, तधा सव्वबम्ह--- गाणं मज्झे अहं बम्हणो । (घ)--- -- ___ चेटः--अजमित्तेअ, तधा वि धोइश्शम् । (तथा कृत्वा ।) अजमित्तेअ, एवं तं शुवण्णगण्डअं मम दिवा, तुह लत्तिं च । ता गेण्ह । (ङ) (इति दत्त्वा निष्क्रान्तः।) ..
विदूषकः-(गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एवं दासीए पुत्तं णिदाचोरं ण अवहरदि । भो वअस्स, अब्भन्तरचतुस्सालअं पवेसआमि णम् । (च)
(क) आर्यमैत्रेय, देखुदकम् । . (ख) किं मम पादोदकैः । भूम्यामेव मया ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।
(ग) आर्यमैत्रेय, ब्राह्मणः खलु त्वम् ।
(घ) यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः।
(ङ) आर्यमैत्रेय, तथापि धाविष्यामि । आर्यमैत्रेय, एतलत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च । तगृहाण ।
(च) अद्याप्येतत्तिष्ठति । किमत्रोजयिन्यां चौरोऽपि नास्ति, य एतं दास्याः पुत्रं निद्राचौरं नापहरति । भो वयस्य, अभ्यन्तरचतुःशालकं प्रवेशयाम्येनम् ।