________________
मृच्छकटिके
जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥ ६ ॥
विदूषकः - भो, एदं अम्हाणं गेहम् । वडमाणंभ, वडूमाणभ उग्वाटेहि दुआरअम् । (क)
चेट:- अज्जमित्ते आह शलशंजोए शुणीअदि । आगदे अज्जचालुदत्ते । ता जाव दुआलअं शे उग्घाटेमि । (तथा कृत्वा ।) अज्ज, वन्दामि । मित्तेअ, तुमंपि बन्दामि । एत्थ वित्थिपणे आशणे णिशीदन्तु अज्जा । (ख)
८२
(उभौ नाट्येन प्रविश्योपविशतः । ) विदूषकः—– वडमाणअ, रअणिअं सद्दावेहि पादाई धोइदुम् । (ग)
चारुदत्त : – (सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् । चेट ः– अज्जमित्तेअ, अहं पाणिअं गेहे । तुमं पादाई धोवेहि । (घ )
विदूषकः - ( सक्रोधम् 1) भो वअस्स, एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेहेदि । मं उण बम्हणं पादाई धोवावेदि । (ङ) चारुदत्तः - वयस्य मैत्रेय, त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु ।
(क) भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक, उद्घाटय द्वारम् ।
(ख) आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्याबह्वारमस्योद्घाट्यांमि । आर्य, वन्दे । मैत्रेय, त्वामपि वन्दे । अत्र विस्तीर्ण आसने निषीदतमार्यौ ।
(ग) वर्धमानक, रदनिकामाकारय पादौ धावितुम् । (घ) आर्यमैत्रेय, अहं पानीयं गृह्णामि । त्वं पादौ धाव |
(ङ) भो वयस्य, एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति ।
यातीत्यर्थः ः ॥ असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम्