________________
तृतीयोऽङ्कः ।
८१
चारुदत्तः-वयस्य, सुष्ठु खल्वद्य गीतं भावरेभिलेन । न च भवान्परितुष्टः।
रक्तं च नाम मधुरं च समं स्फुटं च
भावान्वितं च ललितं च मनोहर च। किंवा प्रशस्तवचनैर्बहुभिर्मदुक्तै
रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥ अपि च ।
तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं
वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् । हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं
___ यत्सत्यं विरतेऽपि गीतसमये गच्छामि, शृण्वन्निव ॥५॥ - विदूषकः-भो वअस्स, आवणन्तररच्छाविभाएसु सुहं कुकरा वि सुत्ता । ता गेहं गच्छम्ह । (अग्रतोऽवलोक्य ।) वअस्स, पेक्ख पेक्ख । एसो वि अन्धआरस्स विअ अवआसं देन्तो अन्तरिक्खपासादादो ओदरदि भअवं चन्दो । (क) चारुदत्तः–सम्यगाह भवान् ।
असौ हि दत्त्वा तिमिरावकाश
मस्तं व्रजत्युन्नतकोटिरिन्दुः ।
अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन्, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्र जपन् , दृढ़ मे न रोचते।
(क) भो वयस्य, आपणान्तररथ्याविभागेषु सुखं कुक्कुरा अपि सुप्ताः । तगृहं गच्छावः । वयस्य, पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः ।
:
रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योषिदेव गायति न पुरुष इति भासते ॥४॥ तमिति ॥ ५ ॥ आपणमध्यरथ्याविभागेषु कुकुरा अपि सुप्ताः । ओदरदि अवतरति । अस्ताभिमुखं