________________
तृतीयोऽङ्कः ।
(ततः प्रविशति चेटः ।) चेट:
सुअणे क्खु भिच्चाणुकम्पके - . शामिए णिद्धणके वि शोहदे । पिशुणे उण दव्वगविदे
दुक्कले क्खु पलिणामदालुणे ॥ १ ॥ अवि अ। ____ शश्शपलक्कबलद्दे ण शक्कि वालिदं.
- अण्णपशत्तकलत्ते ण शक्कि वालिदुम् । ..... जूदपशत्तमणुश्शे ण शक्कि वालिदुं
जे वि शहाविअदोशे ण शक्कि वालिदुम् ॥ २॥ का वि वेला अजचारुदत्तश्श गन्धव्वं शुणिदुं गदश्श । अदिक्कमदि अद्धलअणी । अन्ज वि ण आअच्छदि । ता जाव बाहिलदुआलशालाए गदुअ शुविश्शम् । (क) (इति तथा करोति ।)
(क)
- सुजनः खलु भृत्यानुकम्पका
* स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनद्रव्यगर्वितो. ____दुष्करः खलु परिणामदारुणः ॥
सुअणे इत्यादि । वैतालीयम् । 'सुअणे' इत्येकारो लघुः । छन्दोनुरोधात् । सुजनः खलु भृत्यानुकम्पकः खामी निर्धनोऽपि शोभते। पिशुनः पुनद्रव्यगर्वितो दुष्करः(?) खलु परिणामदारुणः ॥ खलु यस्मादर्थे । दुष्करो यतः, अतः परिणामदारुणः ॥ १॥ शश्शपलकेत्यादि । शक्करी जातिः । पलको लम्पटः । 'पडकला' इति महाराष्ट्रभाषा । सस्यलम्पटो बलीवर्दो न शक्यो वारयितुम् । अन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो. न शक्यो वारयितुम् । योऽपि स्वाभाविको दोषः सोऽपीत्यर्थान शक्यो वारयितुम् ॥ अतिरिक्तदातृत्वं दोष एवेति । तं च मम स्वामी न त्यजतीति भावः ॥ २ ॥