________________
८६]
[ उत्तराध्ययनसूत्रे-भाग-२ अब्भुट्ठाणं नवमं, दसमा उवसंपया ।।
एसा दसंगा साहूणं, सामायारीपवेइया ॥ ४ ॥ अभ्युत्थानम्, अभीत्याभिमुख्येनोत्थानमुद्यमनमुद्यमकरणमभ्युत्थानम्, अभ्युत्थानस्थाने 'नियुक्तिकृता निमन्त्रणाया एवोक्तत्वाद् गृहीतेऽन्नादौ छन्दना, अगृहीते तु निमन्त्रणा, इत्यनयोर्भेदः । तदभ्युत्थानं हि गुरुपूजा, यां गुरुपूजा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारपानीयादिसम्पादनम्, अत्राभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यम् । गुर्वादेशस्य तथास्तु इत्ङ्गीकरणादतन्तरं सर्वकार्ये उद्यमस्य करणमभ्युत्थानमुद्यमनम्, इयं नवमी ज्ञेया। उपसम्पद् दशमी सामाचारी । अस्याः कोऽर्थः ? साधुरुद्यमवान् भूत्वा आचार्यान्तरादधिकज्ञानादिगुणादिसम्पत्तिनिमित्तमाचार्यादीनां पार्श्वेऽवश्थानमुपसम्पत्, इति दशमी ज्ञेया। एषा सामाचारी श्रीतीर्थङ्करैः प्रकर्षेण वेदिता-प्रवेदिताऽधिकं ज्ञाता प्रकाशितेत्यर्थः । कथंभूता सामाचारी ? दसाङ्गा, दश अङ्गानि यस्याः सा दशाङ्गा दशप्रकारेति भावः ॥ ४ ॥ अथ का का सामाचारी कुत्र कुत्र कर्तव्या ? तदाह
गमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं ।
आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ॥५॥ गमने-स्वस्थानादन्यत्र गमनेऽप्रमत्तत्वेनाऽवश्यकर्तव्यव्यापारे भवा आवश्यिकी, तामावश्यिकीम् । यतो हि साधोर्गमनं निष्प्रयोजनं नास्ति, यद्यवश्यं किञ्चित्कार्यं समुत्पन्नं वर्तते, तदैव साधुः स्वस्थानादुत्थितोऽस्तीति भावः । तथा स्थाने - स्वाश्रये प्रवेशसमये प्रमादादात्मनो निषेधः, तत्र भवा नैषेधिकी, उपाश्रये प्रविशता साधुना नैषेधिकी कर्तव्या, यतो हि स्वाश्रये आगमनादनन्तरं तत्समययोग्यकार्याणामेव करणम्, तेष्वेव कार्येषु प्रमादनिषेधः कर्तव्य इति भावः । स्वयमात्मना कार्याणां करणे गुरोरापृच्छना कर्तव्या, न च गुरौ सति स्वबुद्धयैव गुरुमनापृछ्य कार्यं कर्तव्यमिति भावः । परस्य कार्यकरणे गुरोरादेशं प्राप्य यदा कार्यं कर्तुमुद्यतो न भवति, तदा पुनः पृच्छना प्रतिपृच्छनोच्यते ॥५॥
छंदणा दव्वजाएणं, इच्छाकारे य सारणे ।
'मिच्छाकारेप्पनिंदाए, तहक्कारो पडिस्सुणे ॥६॥ अन्नपानीयरूपदव्यैर्यदाऽन्यो यतिनिमन्त्र्यते, तदा छन्दनोच्यते । साधूनामाहारं पानीयं दर्शयित्वा, यदि भवतां मनसि विचार आयाति, तदैतदाहारादिकं भवद्भिर्गृह्यतां, यथाहं निस्तरामीति वाक्यकथनं छन्दनोच्यते ।सारणे स्वस्य परस्य वा कार्य प्रति योग्यत्वेन प्रवर्तने इच्छया-स्वाभिप्रायेण तत्कार्यकरणमिच्छाकारः। तत्रात्मनो यथेच्छाकारेण युष्माकं वाञ्छितं १ इच्छा मिच्छा तहक्कारो, आवस्सिआ अनिसीहिआ।आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ॥ ४८२ ॥
उवसंपया य काले,सामायारी भवे दसविहाओ। एएसिं तु पयाणं, पत्तेयं परूवणं वुच्छं ॥ ४८३ ॥ निर्युक्तौ ॥ २ मिच्छाकारो य निदाए - अन्यसंस्करणे ॥